भारतजननी तव शरणम्!

भारतजननी तव शरणम्। भारतमाते तव शरणम्
मोददायिनी बोधदायिनी अन्नदायिनी तव शरणम्।।

विद्यावंते तव शरणम्
वैभववंते तव शरणम्
अनंत-तेज:प्रसवे अस्मन्मानससुखदे तव शरणम्

विक्रमकारिणि तव शरणम्
पवित्रकारिणि तव शरणम्
पुण्यकर्मसत्प्रभावतंसे हे ज्ञानरसे तव शरणम्

लावण्यमये तव शरणम्
अनाद्यनंते तव शरणम्
अति-रुचिरे सुचिरस्थिरकीर्ते परमोदारे तव शरणम्

अति-महनीये तव शरणम्
अति-रमणीये तव शरणम्
सुरवर-मुनिवर-नरवर-प्रत्यह-नमनीये हे तव शरणम्

विमले कमले तव शरणम्
नित्यानंदे तव शरणम्
शरणागतजन-अभयदायिनी तापहारिणी तव शरणम्

सुजले सुफले तव शरणम्
अजरे अमरे तव शरणम्
भक्तिज्ञानामृतलेविनि हे शांतरुपिणी तव शरणम्

तपस्विनी हे तव शरणम्
महायोगिनी तव शरणम्
भाग्याभाग्ये विजयापजये सततहासिनी तव शरणम्

प्रभुप्रिये! हे तव शरणम्
प्रभुपरिपाल्ये तव शरणम्
त्वत्पदकंजी रुंझी घालू मिलिंदसम अम्हि तव शरणम्।।


कवी - साने गुरुजी
कवितासंग्रह - पत्री
-त्रिचनापल्ली तुरुंग, ऑक्टोबर १९३०

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा